राशिप्रभेदाध्यायः
मङ्गलाचरणम् -
मूर्तित्वे परिकल्पितः शशभृतो वर्माऽपुनर्जन्मना-
मात्मेत्यात्मविदां क्रतुश्च यजतां भर्तामरज्योतिषाम् ।
लोकानां प्रलयोद्भवस्थितिविभुश्चानेकधा यः श्रुतौ
वाचं नः स दधातु नैककिरणस्त्रैलोक्यदीपो रविः ॥ १ ॥ - शार्दूलविक्रीडितम्
ग्रन्थस्यप्रयोजनम्
भूयोभिः पटुबुद्धिभिः पटुधियां होराफलज्ञप्तये
शब्दन्यायसमन्वितेषु बहुशः शास्त्रेषु दृष्टेष्वपि ।
होरातन्त्रमहार्णवप्रतरणे भग्नोद्यमानामहं
स्वल्पं वृत्तविचित्रमर्थबहुलं शास्त्रप्लवं प्रारभे ॥ २ ॥ - शार्दूलविक्रीडितम्
होराशब्दस्य व्युत्पत्तिः
हारेत्यहोरात्रविकल्पमेके
वाञ्छन्ति पूर्वापरवर्णलोपात् ।
कर्मार्जितं पूर्वभवे सदादि
यत्तस्य पङ्क्तिं समभिव्यनक्ति ॥ ३ ॥ - इन्द्रवजा
कालपुरुषावयवः राशिपर्यायश्च
कालाङ्गानि वराङ्गमाननमुरो हृत्क्रोडवासो भृतो
वस्तिर्व्यञ्जनमूरुजानुयुगुले जङ्घे ततोऽङ्घ्रिद्वयम् ।
मेषाश्विप्रथमानवर्क्षचरणाश्चक्रस्थिता राशयो
राशिक्षेत्रगृहर्क्षभानि भवनं चैकार्थसम्प्रत्ययाः ॥ ४ ॥ - शार्दूलविक्रीडितम्
राशिस्वरूपम्
मत्स्यौ घटी नृमिथुनं सगदं सवीणं
चापी नरोऽश्वजघनो मकरो मृगास्यः ।
तौली ससस्यदहना प्लवगा च कन्या
शेषाः स्वनामसदृशाः खचराश्च सर्वे ॥ ५ ॥ - वसन्ततिलका [स्वचराश्चसर्वे]
राशिनवांशद्वादशांशाधिपतयः
क्षितिजसितज्ञचन्द्ररविसौम्यसितावनिजाः
सुरगुरुमन्दसौरिगुरवश्च गृहांशकपाः ।
अजमृगतौलिचन्द्रभवनादि नवांशविधिः
भवनसमांशकाधिपतयः स्वगृहात्क्रमशः ॥ ६ ॥ - नर्दटक / नर्कुटक / कोकिलम्
त्रिंशांशाधिपानां परिचयः
कुजरविजगुरुज्ञशुक्रभागाः
पवनसमीरणकौर्पिजूकलेयाः ।
अयुजि युजि तु भे विपर्ययस्थाः
शशिभवनालिझषान्तमृक्षसन्धिः ॥ ७ ॥ - पुष्पिताग्रा
मेषादिद्वादशराशीनां संज्ञानिर्धारणम्
क्रियताबुरिजितुमकुलीरलेयपाथोनजूककौर्प्याख्याः ।
तौक्षिक आकोकेरो हृद्रोगश्चान्त्यभं चेत्थम् ॥ ८ ॥ - आर्या
षड्वर्गनिरूपणम्
द्रेक्काणहोरानवभागसंज्ञाः
त्रिशांशकद्वादशसंज्ञिताश्च ।
क्षेत्रं च यद्यस्य स तस्य वर्गो
होरेति लग्नं भवनस्य चार्धम् ॥ ९ ॥ - इन्द्रवज्रा
राशीनां रात्रिदिनत्वं पृष्ठोदयशीर्षोदयत्वञ्च
गोऽजाश्विकर्किमिथुनाः समृगा निशाख्याः
पृष्ठोदया विमिथुनाः कथितास्त एव ।
शीर्षोदया दिनबलाश्च भवन्ति शेषा
लग्नं समेत्युभयतः पृथुरोमयुग्मम् ॥ १० ॥ - वसन्ततिलका
राशीनां क्रूरसौम्यदिग्चरस्थिरद्विस्वभावादिसंज्ञाः
क्रूरः सौम्यः पुरुषवनिते ते चरागद्विदेहाः
प्रागादीशाः क्रियवृषनृयुक्कर्कटाः सत्रिकोणाः ।
होराद्रेक्काणयोरशिपतिनिर्णयः
मार्तण्डेन्द्वोरयुजि समभे चन्द्रभान्वोश्च होरे
द्रेक्काणाः स्युः स्वभवनसुतत्रित्रिकोणाधिपानाम् ॥ ११ ॥ - मन्दाक्रान्ता
मतान्तरेण होराद्रेक्काणयोरधिपतिविचारः
केचित्तु होरां प्रथमां भपस्य
वाञ्छन्ति लाभाधिपतेर्द्वितीयाम् ।
द्रेक्काणसञ्ज्ञामपि वर्णयन्ति
स्वद्वादशैकादशराशिपानाम् ॥ १२ ॥ - इन्द्रवजा
ग्रहाणामुच्चनीचस्थानानि
अजवृषभमुगाङ्गनाकुलीरा
झषवणिजौ च दिवाकरादितुरङ्गाः ।
दशशिखिमनुयुक्तिथीन्द्रियांशैः
त्रिनवकविंशतिभिश्च तेऽस्तनीचाः ॥ १३ ॥ - पुष्पिताग्रा
ग्रहाणां वर्गोत्तमनवांशः
वर्गोत्तमाश्चरगृहादिषु पूर्वमध्य-
पर्यन्ततः शुभफला नवभागसंज्ञाः ।
ग्रहाणां मूलत्रिकोणस्थानानि
सिंहो वृषः प्रथमषष्ठहयाङ्गतौलि-
कुम्भास्त्रिकोणभवनानि भवन्ति सूर्यात् ॥ १४ ॥ - वसन्ततिलका
लग्नादिद्वादशभावानां संज्ञा / उपचयः अपचयश्च
होरादयस्तनुकुटुम्बसहोत्थबन्धु-
पुत्रारिपत्निमरणानि शुभास्पदायाः ।
रिःफाख्यमित्युपचयान्यरिकर्मलाभ-
दुश्चिक्यसञ्ज्ञितगृहाणि न नित्यमेके ॥ १५ ॥ - वसन्ततिलका
द्वादशभावानां पर्यायनिरूपणम्
कल्पस्वविक्रमगृहप्रतिभाक्षतानि
चित्तोत्थरन्ध्रगुरुमानभवव्ययानि । [भयव्ययानि]
लग्नाच्चतुर्थनिधने चतुरस्रसंज्ञे
द्यूनं च सप्तमगृहं दशमर्क्षमाज्ञा ॥ १६ ॥ - वसन्ततिलका
भावानां कण्टकादिसंज्ञा राशिबलञ्च
कण्टककेन्द्रचतुष्टयसंज्ञाः
सप्तमलग्नचतुर्थखभानाम् ।
तेषु यथाभिहितेषु बलाढ्याः
कीटनराम्बुचराः पशवश्च ॥ १७ ॥ - दोधक
भावानां पणफरत्रिकोणादिसंज्ञा
केन्द्रात्परं पणफरं परतश्च सर्व- [तत्वदापोक्लिमं ]
मापोक्लिमं हिबुकमम्बुसुखं च वेश्म ।
जामित्रमस्तभवनं सुतभं त्रिकोणं
मेषूरणं दशममत्र च कर्म विद्यात् ॥ १८ ॥ - वसन्ततिलका
लग्नादिराशीनां बलनिरूपणम्
होरास्वामिगुरुज्ञवीक्षितयुता नान्यैश्च वीर्योत्कटा
केन्द्रस्था द्विपदादयोऽह्नि निशि च प्राप्ते च सन्ध्याद्वये ।
द्वादशराशिनां मानप्रमाणम्
पूर्वार्धे विषयादयः कृतगुणा मानं प्रतीपं च तद्-
दुश्चिक्यं सहजं तपश्च नवमं त्राद्यं त्रिकोणं च तत् ॥ १९ ॥ - शार्दूलविक्रीडित
राशीनां वर्णविचारः/राशीनां प्लवत्वं वेशिस्थानञ्च
रक्तः श्वेतः शुकतनुनिभः पाटलो धूम्रपाण्डु-
श्चित्रः कृष्णः कनकसदृशः पिङ्गलः कर्बुरश्च ।
बभ्रुः स्वच्छः प्रथमभवनाद्येषु वर्णाः प्लवत्वं
स्वाम्याशाख्यं दिनकरयुताद्भाद्द्वितीयं च वेशिः ॥ २० ॥ - मन्दाक्रान्ता
॥ इति श्रीवराहमिहिराचार्यकृते होराशास्त्रबृहज्जातकाख्ये राशिप्रभेदाध्यायो नाम प्रथमोऽध्यायः ॥