भावफलकथनाध्यायः तन्वादिगतग्रहफलम्
१ । सूर्यभावफलम्
यदा लग्नस्थानं गतवति रवौ यस्य जनने
तपेत्कान्तावर्गान्निजसहजवर्गादपि मानः ।
वपुः कष्टं पित्तानिलरुधिररोगेण परमं
विदेशव्यापाराद् व्रजति धनमल्पत्वमभितः ॥ १ ॥
जनुः काले वित्तं गतवति यदा वासरमणौ
तदा भाग्यं तस्य प्रसरति कुटुम्बैः कलिरपि ।
शुभे वित्तापायो ह्यपि पथि तुरङ्गध्वनिरलं
गृहद्वारे दम्भाद् व्रजति शुभकृत्यं न परमम् ॥ २ ॥
तृतीये चण्डांशौ भवति जनने विक्रमकला-
प्रविस्तरो यस्यातुलबलमलं तीर्थगमनम् ।
विपक्षाणां क्षोभः सपदि समरे भूपकृपया
प्रतापस्याधिक्यं सहजगणतो दुःखमनिशम् ॥ ३ ॥
तुरीये मार्तण्डे नरपतिकुलादर्थनिवहः
भवेन्मानव्रातः कलिरपि च बन्धोः प्रसरति ।
विपक्षाणां युद्धे भवति विजयो जातु न भवेत्
तथा वित्तं पुंसां व्रजति न हि शान्तिं खलजनात् ॥ ४ ॥
यदादित्येऽपत्ये प्रथमतनयो याति विलयं
कुशाग्रा वै बुद्धिः कपटपटुतातीव वितता ।
प्रसक्तिर्मन्त्राणां प्रभवति रतिर्वञ्चनपरा
तथा तस्य क्रिडामयनिवहभोगेन निधनम् ॥ ५ ॥
दिवाभर्ता षष्ठे प्रबलरिपुहर्ता व्ययचयं
धराभर्तुर्दण्डाद्धितजनवचाच्चापि कुरुते ।
जनन्या गोत्रार्तिर्गजवृषतुरङ्गादिषु विपत्
प्रयाणे भिल्लाद्यैर्बहुतरविवादो जनिमताम् ॥ ६ ॥
प्रचण्डाशुः कामे जननसमये यस्य भवति
प्रियायाः सन्तापं सपदि कुरुते तस्य सततम् ।
तथा कष्टं देगे ह्यदि परमचिन्तामपि खला-
दनल्पव्यापारादपि च परमायाति न धनम् ॥ ७ ॥
मृतावर्के कर्केश्वरतनुसमा कान्तिविरतिः
क्रियाहीना बुद्धिः प्रभवति वसुक्षैण्यमभितः ।
गुदे रोगाधिक्यं खलु पुरवधूभिश्च रमणं
विदेशि संवासः कलिरपि जनैर्यस्य जनने ॥ ८ ॥
जनुः काले जन्तोर्नवमभवने वासरमणौ
बहिर्योगेनलं सकलजनपूज्यत्वमभतः ।
तथा चिन्ताधिक्यं भवति सहजैर्न्यमनुजैः
प्रवासादुद्विग्नं हृदयमपि तप्तं क्षितितले ॥ ९ ॥
दिनाधीशे राज्ये जननसमये तस्य जनके
जनयामार्तिः स्यादिह हि निबिडा यस्य सहसा ।
श्रमात् सिद्धिः सर्वा क्षितिपतिकृपाकीर्तिरतुला
कलत्रापत्याद्यैर्भवति विधुरा दुद्धिरनिशम् ॥ १० ॥
यदा लाभस्थानं गतवरि रवौ यस्य सततं
धनानामाधिक्यं क्षितिपतिकृपातस्तनुभृतः ।
प्रतापाग्नौ शश्वत् पतति रिपुवृन्दं च परितः
स्वपुत्रात्सन्तापो भवति बहुधा वाहनसुखम् ॥ ११ ॥
व्यये चेदादित्ये जनुषि नयने कष्टमधिकं
क्षितिर्मार्गेऽकस्मान्निजवपुषि पीडा च निबिडा ।
रिपूणां सङ्ग्रामे भवति विजयश्रीस्तनुभृतः
स्थितिर्नो चाञ्चल्याञ्जनकसहजार्तिश्च महती ॥ १२ ॥
२ । चन्द्रभावफलम्
क्रिये तुङ्गे स्वर्क्षे प्रभवति विलग्ने हिमकरः
विधत्ते सत्वाढ्यं नरमतुलमोदावृतमपि ।
गदव्रातैर्युक्तं जडमधममन्यर्क्षग उत
श्रिया हीनं नित्यं बधिरमपि सत्वैर्विरहितम् ॥ १ ॥
जनुः कोशागारं गतवति शशाङ्के तनुभृतां
धनार्द्धिः पद्माक्षीरतिरतिसुखं धान्यनिवहैः ।
भवेत्प्रीतिस्तुच्छा निजपरिजने विष्णुवनिता
समायाति स्वैरं निखिलभवनान्तः प्रमुदिता ॥ २ ॥
सहोत्थे शीतांशौ जनुषि बलिते विक्रमवशाद्
धनान्यागच्छन्ति प्रवरवनितासङ्गमसुखम् ।
प्रतापर्द्धिः पुसां सहजगणतः सौख्यमधिकं
तपस्या संसारे बुधजननमस्या प्रभवति ॥ ३॥
सुखागारे चन्द्रो भवति सबलो यस्य जननेऽ-
धिकारो भाण्डारे प्रबलवसुधाभर्तुरनिशम् ।
वयस्याद्ये किञ्चित् सुखमपि ततो नूतनलता
विलासः पुत्राणां सुखमलमलङ्कारनिवहैः ॥ ४ ॥
जनुः काले चन्द्रो भवति यदि सन्तानभवने
तदा पुंसः कान्तासुतसुखमलङ्कारनिकरैः ।
सदा हृद्या विद्या नरपतिकुलादेव वसुधा-
दुकूलार्थाः स्वैरं धनमपि कुसीदेन नितराम् ॥ ५ ॥
अरिस्थाने चन्द्रो भवति सकरो जन्मसमये
प्रतापाग्नौ शत्रुर्ध्वलति परितस्तस्य परतः ।
पुनर्भूयादद्धा रिपुरिह जितोऽपि क्षितितले
सुखं मातुः स्वल्पं प्रभवति गदानामतिरतिः ॥ ६ ॥
यदा कान्तागारं गतवति मृगाङ्क जनिमतां
कराक्रान्तेऽकस्माद्धनमपि भवेत् स्त्रीजनकुलात् ।
अनङ्गप्राबल्यं वरनगरनारीरतिकला
प्रवीणो वै धीरध्वनिमतिरतीव प्रभवति ॥ ७ ॥
यदा मृत्युस्थानङ्गतवति शशाङ्के बलयुते
महारोगातङ्कः प्रबलरिपुशङ्का च भवति ।
क्वचित् क्वाथं मुद्गोदकमपि पचन्तीह भिषजः
सदा सद्वैद्यानां कलकलरवस्तस्य सदने ॥ ८ ॥
तपः स्थाने राकापतिरिह यदा जन्मसमये
स्तुवन्ति व्यामोहात् प्रबलरिपवश्चापि कृतिनः ।
तमर्थानामाप्तिः परमकमनीयं मुखमलं
सुखं चाङ्गे राकापतिवदमितं तस्य सततम् ॥ ९ ॥
यदा कर्मस्थानङ्गतवति तमीशे जनिमतां
स्वबन्धुभ्यः सौख्यं नरपतिकुलादर्थनिचयः ।
नवीनाभिर्नित्यं नगरवनिताभिः सुरतजं
सुखं पूर्वापत्ये प्रभवति सुखं नैव सततम् ॥ १० ॥
तमीभर्ता लाभे भवति जनने यस्य सबल-
स्तदा पृथ्वीभर्तुः प्रभवति धनानामधिकृतिः ।
श्रियः श्रेणी बाला लसति सदनान्तः प्रमुदिता
प्रतिष्ठा काष्ठान्तं व्रजति विभुता भूपतिकृपा ॥ ११ ॥
व्ययस्थानं याते जनुषि रजनीशे जनिमतां
रिपोर्भीतिश्चिन्ता नयनयुगले रोगपटली ।
विचिन्त्या यज्ञादौ व्ययचय उतान्तं पितृकुलात्-
तथा मातुर्वंशात्प्रभवति विषादश्च सुरतात् ॥ १२ ॥
३ । कुजभावफलम्
धरापुत्रे लग्नं गतवति यदा जन्मसमये
प्रहारो लौहास्त्रादनलशरदण्डादपि भयम् ।
विनाशो भार्यायाः शिरसि नयने रोगपटली
प्रतापस्तस्यापि प्रभवति मृगेन्द्रेण च समः ॥ १ ॥
कुटुम्बे माहेयः प्रभवति यदा यस्य जनने
प्रलब्धे वित्तेशे स्वजनवशतः किं फलमलम् ।
यथा मुक्ताहारं क्षितिपतिजनैरर्पितमिमं
गले सूत्रायन्ते सततमभितो मर्कटगणाः ॥ २ ॥
यदा गोत्रापुत्रे प्रभवति सहोत्थे तनुभृतां
बलं बाह्वोः पूर्णं निजभुजबलेनैव सदने ।
स्थिराः विष्णोः कान्ता लसति सहजे कष्टमधिकं
तपश्चर्या वर्या भवति च सपर्याविधिरपि ॥ ३ ॥
चतुर्थे भूपुत्रे भवति जनने यस्य सबलः
किमन्ये रव्याद्याः सततमनुकूलास्तनुभृतः ।
सुहृद्वर्गात्सौख्यं प्रभवति न किञ्चिन्निजगृहात्
त्रपा शत्रोः क्षोणीनरपतिकृपावस्त्रपटली ॥ ४ ॥
अपत्ये क्ष्मापुत्रे भवति जठराग्नेः प्रबलता
न सन्तानो जीवत्यपि यदि च जीवत्यपि गदी ।
सदान्तः सन्तापः खलु मतिरनल्पाघन्चिये
कृतेऽपि स्वर्गाप्तिर्नहि जनिमतामर्थनिवहः ॥ ५ ॥
यदा शत्रुस्थानं गतवति कुजे जन्मसमये
पलायन्ते भीताः सपदि समरे शत्रुनिवहाः ।
विचारज्ञा प्रज्ञा भवति न सुखं मातुलकुले
विलीयन्ते चार्थाः पुनरपि परार्थाप्तिरभितः ॥ ६ ॥
कुजे कान्तागारं गतवति जनोऽतीवलघुताम्
समाधत्ते युद्धे प्रबलरिपुणा सक्षततनुः ।
तथा कान्ताघाती परविषयवासी खलमति
र्निवृत्तो वाणिज्यादपि परवधूरङ्गनिरतः ॥ ७ ॥
क्षमापुत्रे मृत्यौ कविगुरुबुधाः किं तनुभृतः
प्रकुर्युर्ये चान्ये प्रभवति विधानेऽपि नितराम् ।
खलायन्ते तस्य स्वजननिवहाः किं न सहसा
प्रयत्ने यातेऽपि प्रवरगदजा विघ्नपटली ॥ ८ ॥
यदा भाग्यस्थानं गतवति कुजे जन्मनि मति
र्महोग्राभाग्याद्वै धनमपि महोग्रं तनुभृताम् ।
तथा ज्येष्ठः श्यालो नहि सहजसौख्यं च परितः ।
कृतेत्युद्योगे स्यान्नतु फलविपाकः खलु भृशम् ॥ ९ ॥
यदा कर्मस्थानं गतवति कुजे यस्य जनने
क्षमाभृत्यग्रामक्षितिपतिकुलावाप्तविभवः ।
स्वतः सिद्धः शश्वत्प्रभवति समन्तात्परमसौ
प्रतापव्रातेन व्रजति सहसा सिंहसमताम् ॥ १० ॥
यदाये माहेयः प्रभवति बलादेव समरे
जयति युद्धे शत्रून्नपि सुतविषादेन विकलः ।
धनग्रामक्षोणी चपलतुरगानन्दकृदसौ
परार्थव्यपारात्क्षतिमभितरामेव लभते ॥ ११ ॥
कुजोऽपाये यस्य प्रभवति यदा जन्मसमये
सदा वित्तापायं सपदि कुरुते तस्य सततम् ।
कलङ्कप्रख्यातिं पिशुनजनतश्चौरकुलतो
भयं वा शस्त्रादेरपि रिपुकृतं दुःखमधिकम् ॥ १२ ॥
४ । बुधभावफलम्
यदा लग्नस्थाने हिमकरसुते यस्य जनने
न किं सर्वारिष्टं विहगजनितं गच्छति लयम् ।
सदा रूपं चामीकरनिभमलङ्कारलसितम्
प्रतिष्ठा संसारे प्रभवति वरिष्ठा तनुभृताम् ॥ १ ॥
विधोः पुत्रे वित्ते प्रवरमतिरज्ञोऽपि कृतिना
समाजस्थो वाचस्पतिरिव सदा भासत इति ।
प्रतापी गीतज्ञो भ्रमर इव भोगी क्षितितले
महोदारः शश्वत्सुरतरुरिव श्रीपतिसमः ॥2 ॥
तृतीये यस्य ज्ञे प्रसरति वणिक् वृत्तिरभितः
सदा दुर्वश्यानां भवति च वशित्वं निधिधिया ।
सुखानामाधिक्यं निजसहजवर्गानुसरणात्त-
तोऽन्ते वैराग्याद्विषयपटली गच्छति लयम् ॥3 ॥
चतुर्थे यस्य ज्ञे प्रवरजनमैत्री क्षितितलेऽ-
धिकारोऽपि द्वारे भवति सुधाभर्तुरभितः ।
तदाज्ञातः सर्वैर्निजपरिजनैर्लिख्यत उत
प्रयत्नात्तद्वाक्यं किमपि न सुखं पैतृकधनात् ॥4 ॥
तमीभर्तुः पुत्रे गतवति जनुः पुत्रभवनं
वयस्याद्ये यस्य प्रथमसुतगर्भक्षतिरपि ।
मनीषा सद्वित्तव्यवहृतिविधेरर्थचतुरा
खलस्य व्यासङ्गात्कपटपटली नृत्यति मुखे ॥5 ॥
विरोधो बन्धूनामरिगणनिरोधस्तनुभृतां
रिपौ ज्ञे वायूनां प्रभवति विकारोऽपि जठरे ।
यतीनां सम्बोधः सपदि शुभमार्गे व्ययचयः
वराणां रत्नानां व्यवहृतिरतीवार्थजननी ॥6 ॥
बुधे दारागारं गतवति यदा यस्य जनने
त्ववश्यं शैथिल्यं कुसुमशररङ्गोत्सवविधौ ।
मृगाक्षीणां भर्तुः प्रभवति यदाऽर्केण रहिते
तदा कान्तिश्चञ्चत्कनकसदृशी मोहजननी ॥7 ॥
मृतावब्जापत्ये प्रभवति यदा जन्मसमये
चिरं वै जीवित्वं निजपरपुरे तस्य सहसा ।
प्रविख्यातिः शश्वन्नरपतिकुलादर्थन्चियः
परस्त्रीभिः क्रीडा सुरतजनिता यस्य सततम् ॥८ ॥
बुधे धर्मस्थानं गतवति सुधर्मा बुधवरो
नरो गङ्गाभक्तो यजननिरतः सद्भिरभितः ।
पताका वंशस्य प्रभवति नरेशादपि सदा
प्रतापी सन्तापी पिशुनमनुजानां धनपतिः ॥9 ॥
बुधे कर्मस्थानं गतवति यदा जन्मसमये
पितुर्वित्तव्रातैः सुखमतितरामश्वपटली
गजश्रेणीभृत्यप्रवरमणिशालाम्बरचयः
परानीतिः क्षोणीपतिविहितवृत्तिस्तनुभृतः ॥10 ॥
कुतः कन्यादानं भवति सदने लाभभवने
विना ज्ञं वित्ताप्तिः कथमृणविमुक्तिः कथमपि ।
समन्ताद् भूदेवाः कथमपि वितृष्णाश्च भविनां
कथं रूपं दिव्यं कथमरिकुलार्थापहरणम्॥ ११ ॥
बुधेऽपाये यस्य प्रभवति न चेत्तस्य सदनं
कथं विज्ञव्रातो भजति परितोऽपि द्विजगणः ।
कथं युद्धे यान्ति प्रबलरिपवो वा विमुखताम्
कथं कोषापायः प्रवरयजने तीर्थविषये ॥ १२ ॥