यथा शिखा मयूराणां नागानां मणयो यथा।

तद्वद्वेदाङ्गशास्त्राणां गणितं मूर्ध्नि संस्थिता॥


तद्वद्वेदाङ्गशास्त्राणां गणितं मूर्ध्नि संस्थिता॥

कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः॥


सूर्यः पितामहो व्यासो वशिष्ठोऽत्रिः पराशर: ।

कश्यपो नारदो गर्गो मरिचिर्मनुरङ्गिराः ॥


लोमशः पौलिशश्चेव च्यवनो यवनो भृगुः ।

शौनकोऽष्टादशश्चैते ज्योतिश्शास्त्रप्रवर्तकाः ॥


दैवज्ञः

अद्वेषी नित्यसन्तोषी गणितागमपारगः

मुहूर्तगुणदोषज्ञो वाङ्मी कुशलबुद्धिमान्।

त्रिस्कन्धज्ञो दर्शनीयः श्रौतस्मार्तक्रियापरः

निर्दाम्बिकः सत्यवादी दैवज्ञो दैववित् स्थिरः॥