मङ्गलाचरणम्

गौरीश्रवःकेतकपत्रभङ्गमाकृष्य हस्तेन ददन्मुखाग्रे ।

विघ्नं मुहूर्ताकलितद्वितीयदन्तप्ररोहो हरतु द्विपास्यः ॥ १ ॥ इन्द्रवज्रा

क्रियाकलापप्रतिपत्तिहेतुं संक्षिप्तसारार्थविलासगर्भम् ।

अनन्तदैवज्ञसुतः स रामो मुहूर्तचिन्तामणिमातनोति ॥ २ ॥ ऋद्धिः


१. शुभाशुभप्रकरणम्

गौरीश्रवःकेतकपत्रभङ्गमाकृष्य हस्तेन ददन्मुखाग्रे ।

विध्नं मुहूर्ताकलितद्वितीयदन्तप्ररोहो हरतु द्विपास्यः ॥ १ ॥ इन्द्रवज्रा

क्रियाकलापप्रतिपत्तिहेतुं संक्षिप्तसारार्थविलासगर्भम् ।

अनन्तदैवज्ञसुतः स रामो मुहूर्तचिन्तामणिमातनोति ॥ २ ॥ ऋद्धिः

तिथीशा वह्निकौ गौरी गणेशोऽहिर्गुहो रविः ।

शिवो दुर्गाऽन्तको विश्वे हरिः कामः शिवः शशी ॥ ३ ॥

नन्दा च भद्रा च जया च रिक्ता पूर्णेति तिथ्योऽशुभमध्यशस्ताः ।

सितेऽसिते शस्तसमाधमाः स्युः सितज्ञभौमार्किगुरौ च सिद्धाः ॥ ४ ॥ रामा

नन्दा भद्रा नन्दिकाख्या जया च रिक्ता भद्रा पूर्णसञ्ज्ञा मृताऽर्कात् ।

याम्यं त्वाष्ट्रं वैश्वदेवं धनिष्ठाऽऽर्यम्णं ज्येष्ठाऽन्त्यं रवेर्दग्धभं स्यात् ॥ ५ ॥ शालिनी

षष्ठ्यादितिथयो मन्दाद्विलोमं प्रतिपद्बुधे ।

सप्तम्यर्केऽधमाः षष्ठ्याद्यामाश्च रदधावने ॥ ६ ॥

षष्ठ्यष्टमी भूतविधुक्षयेषु नो सेवेत ना तैलपले क्षुरं रतम् ।

नाभ्यञ्जनं विश्वदशद्विके तिथौ धात्रीफलैः स्नानममाद्रिगोष्वसत् ॥ ७ ॥ इन्द्रवंशा

सूर्येशपञ्चाग्निरसाष्टनन्दा वेदाङ्गसप्ताश्विगजाङ्कशैलाः ।

सूर्याङ्गसप्तोरगगोदिगीशा दग्धा विषाख्याश्च हुताशनाश्च ॥ ८ ॥ इन्द्रवज्रा

सूर्यादिवारे तिथयो भवन्ति मघाविशाखाशिवमूलवह्निः ।

ब्राह्मं करोऽर्काद्यमघण्टकाश्च शुभे विवर्ज्या गमने त्ववश्यम् ॥ ९ ॥ आख्यानिकी

भाद्रे चन्द्रदृशौ नभस्यनलनेत्रे माधवे द्वादशी

पौषे वेदशरा इषे दशशिवा मार्गेऽद्रिनागा मधौ ।

गोष्टौ चोभयपक्षगाश्च तिथयः शून्या बुधैः कीर्तिता

ऊर्जाषाढतपस्य शुक्रतपसां कृष्णे शराङ्गाब्धयः ॥ १० ॥ शार्दूलविक्रीडितम्

शक्राः पञ्च सिते शक्राद्र्यग्निविश्वरसाः क्रमात् ।

तथा निन्द्यं शुभे सार्पं द्वादश्यां वैश्वमादिमे ॥ ११ ॥

अनुराधा द्वितीयायां पञ्चम्यां पित्र्यभं तथा ।

त्र्युत्तराश्च तृतीयायामेकादश्यां च रोहिणी ॥ १२ ॥

स्वातीचित्रे त्रयोदश्यां सप्तम्यां हस्तराक्षसे ।

नवम्यां कृत्तिकाऽष्टम्यां पूभा षष्ठ्यां च रोहिणी ॥ १३ ॥

कदास्रभे त्वाष्ट्रवायू विश्वेज्यौ भगवासवौ ।

चित्राद्वीशौ शिवाश्व्यर्काः श्रुतिमूले यमेन्द्रभे ।

चैत्रादिमासे शून्याख्यास्तारा वित्तविनाशदाः ॥ १५ ॥

घटो झषो गौर्मिथुनं मेषकन्यालितौलिनः ।

धनुः कर्को मृगः सिंहश्चैत्रादौ शून्यराशयः ॥ १६ ॥

पक्षादितस्त्वोजतिथौ घटैणौ मृगेन्द्रनक्रौ मिथुनाङ्गने च ।

चापेन्दुभे कर्कहरी हयान्त्यौ गोऽन्त्यौ च नेष्टे तिथिशून्यलग्ने ॥ १७ ॥ वाणी

तिथयो मासशून्याश्च शून्यलग्नानि यान्यपि ।

मध्यदेशे विवर्ज्यानि न दूष्याणीतरेषु तु ॥ १८ ॥

पङ्ग्वन्धकाणलग्नानि मासशून्याश्च राशयः ।

गौडमालवयोस्त्याज्या अन्यदेशे न गर्हिताः ॥ १९ ॥

वर्जयेत्सर्वकार्येषु हस्तार्कं पञ्चमीतिथौ ।

भौमाश्विनीं च सप्तम्यां षष्ठ्यां चन्द्रैन्दवं तथा ॥ २० ॥

बुधानुराधामष्टम्यां दशम्यां भृगुरेवतीम् ।

नवम्यां गुरुपुष्यं चैकादश्यां शनिरोहिणीम् ॥ २१ ॥

गृहप्रवेशे यात्रायां विवाहे च यथाक्रमम् ।

भौमाश्विनीं शनौ ब्राह्मं गुरौ पुष्यं विवर्जयेत् ॥ २२ ॥

आनन्दाख्यः कालदण्डश्च धूम्रो धाता सौम्यो ध्वाङ्क्षकेतू क्रमेण ।

श्रीवत्साख्यो वज्रकं मुद्गरश्च छत्रं मित्रं मानसं पद्मलुम्बौ ॥ २३ ॥ शालिनी

उत्पातमृत्यू किल काणसिद्धी शुभोऽमृताख्यो मुसलो गदश्च ।

मातङ्गरक्षश्चरसुस्थिराख्याः प्रवर्धमानाः फलदाः स्वनाम्ना ॥ २४ ॥ आख्यानिकी

दास्रादर्के मृगादिन्दौ सार्पाद्भौमे कराद्बुधे ।

मैत्राद्गुरौ भृगौ वैश्वाद्गण्या मन्दे च वारुणात् ॥ २५ ॥

ध्वांक्षे वज्रे मुद्गरे चेषु नाड्यो वर्ज्या वेदाः पद्मलुम्बे गदेऽश्वाः ।

धूम्रे काणे मौसले भूर्द्वयं द्वे रक्षो मृत्यूत्पातकालाश्च सर्वे ॥ २६ ॥ शालिनी

सूर्यभाद्वेदगोतर्कदिग्विश्वनखसम्मिते ।

चन्द्रर्क्षे रवियोगाः स्युर्दोषसङ्घविनाशकाः ॥ २७ ॥

सूर्येऽर्कमूलोत्तरपुष्यदास्रं चन्द्रे श्रुतिब्राह्मशशीज्यमैत्रम् ।

भौमेऽश्व्यहिर्बुध्न्यकृशानुसार्पं ज्ञे ब्राह्ममैत्रार्ककृशानुचान्द्रम् ॥ २८ ॥ बाला

जीवेऽन्त्यमैत्राश्व्यदितीज्यधिष्ण्यं शुक्रेऽन्त्यमैत्राश्व्यदितिश्रवोभम् ।

शनौ श्रुतिब्राह्मसमीरभानि सर्वार्थसिद्ध्यै कथितानि पूर्वैः ॥ २९ ॥ उपजाति

द्वीशात्तोयाद्वासवात्पौष्णभाच्च ब्राह्मात्पुष्यादर्यमर्क्षाच्चतुर्भैः ।

स्यादुत्पातो मृत्युकाणौ च सिद्धिर्वारेऽर्काद्ये तत्फलं नामतुल्यम् ॥ ३० ॥ शालिनी

कुयोगास्तिथिवारोत्थास्तिथिभोत्था भवारजाः ।

हूणबङ्गखशेष्वेव वर्ज्यास्त्रितयजास्तथा ॥ ३१ ॥

सर्वस्मिन्विधुपापयुक्तनुलवावर्धे निशाह्नोर्घटी

त्र्यंशं वै कुनवांशकं ग्रहणतः पूर्वं दिनानां त्रयम् ।

उत्पातग्रहतोऽद्र्यहाँश्च शुभदोत्पातैश्च दुष्टं दिनं

षण्मासं ग्रहभिन्नभं त्यज शुभे यौद्धं तथोत्पातभम् ॥ ३२ ॥ शार्दूलविक्रीडितम्

नेष्टं ग्रहर्क्षं सकलार्धपादग्रासे क्रमात्तर्कगुणेन्दुमासान् ।

पूर्वं परस्तादुभयोस्त्रिघस्रा ग्रस्तेऽस्तगे चाभ्युदितेऽर्धखण्डे ॥ ३३ ॥

जन्मर्क्षमासतिथयो व्यतिपातभद्रा वैधृत्यमापितृदिनानि तिथिक्षयर्द्धी ।

न्यूनाधिमासकुलिकप्रहरार्द्धपात-विष्कम्भवज्रघटिकात्रयमेव वर्ज्यम् ॥ ३४ ॥ वसन्ततिलका

परिघार्धं पञ्च शूले षट् च गण्डातिगण्डयोः ।

व्याघाते नव नाड्यश्च वर्ज्याः सर्वेषु कर्मसु ॥ ३५ ॥

वेदाङ्गाष्टनवार्केन्द्रपक्षरन्ध्रतिथौ त्यजेत् ।

वस्वङ्कमनुतत्त्वाशाः शरा नाडीः पराः शुभाः ॥ ३६ ॥

कुलिकः कालवेला च यमघण्टश्च कण्टकः ।

वाराद्द्विघ्ने क्रमान्मन्दे बुधे जीवे कुजे क्षणः ॥ ३७ ॥

सूर्ये षट्स्वर नागदिङ्मनुमिताश्चन्द्रेऽब्धिषट् कुञ्जरा-

ङ्कार्काविश्वपुरन्दराः क्षितिसुते द्व्यब्ध्यग्नितर्का दिशः ।

सौम्ये द्व्यब्धिगजाङ्कदिङ्मनुमिता जीवे द्विषड्भास्कराः

शक्राख्यास्तिथयः कलाश्च भृगुजे वेदेषु तर्क ग्रहाः ॥ ३८ ॥

दिग्भास्करा मनुमिताश्च शनौ शशिद्वि-

नागा दिशो भवदिवाकरसम्मिताश्च ।

दुष्टक्षणः कुलिककण्टककालवेलाः

स्युश्चार्द्धयामयमघण्टगताः कलांशाः ॥ ३९ ॥

विपाशेरावतीतीरे शुतुद्रूश्च त्रिपुष्करे ।

विवाहादिशुभे नेष्टं होलिकाप्राग्दिनाष्टकम् ॥ ४० ॥

मृत्युक्रकचदग्धादीनिन्दौ शस्ते शुभाञ्जगुः ।

केचिद्यामोत्तरं चान्ये यात्रायामेव निन्दितान् ॥ ४१ ॥

अयोगे सुयोगेऽपि चेत्स्यात्तदानीमयोगं निहत्यैष सिद्धिं तनोति ।

परे लग्नशुद्ध्या कुयोगादिनाशं दिनार्द्धोत्तरं विष्टिपूर्वं च शस्तम् ॥ ४२ ॥

शुक्ले पूर्वार्धेऽष्टमीपञ्चदश्योर्भद्रैकादश्यां चतुर्थ्यां परार्धे ।

कृष्णेऽन्त्यार्धे स्यात्तृतीयादशम्योः पूर्वे भागे सप्तमीशम्भुतिथ्योः ॥ ४३ ॥

पञ्चद्व्यद्रिकृताष्टरामरसभूयामादिघट्यः शरा

विष्टेरास्यमसद्गजेन्दुरसरामाद्र्यश्वबाणाब्धिषु ।

यामेष्वन्त्यघटीत्रयं शुभकरं पुच्छं तथा वासरे

विष्टिस्तिथ्यपरार्धजा शुभकरी रात्रौ तु पूर्वार्धजा ॥ ४४ ॥

कुम्भकर्कद्वये मर्त्ये स्वर्गेऽब्जेऽजात्त्रयेऽलिगे ।

स्त्रीधनुर्जूकनक्रेऽधो भद्रा तत्रैव तत्फलम् ॥ ४५ ॥

वाप्यारामतडागकूपभवनारम्भप्रतिष्ठे व्रता-

ऽऽरम्भोत्सर्गवधूप्रवेशनमहादानानि सोमाष्टके ।

गोदानाग्रयणप्रपाप्रथमकोपाकर्म वेदव्रतं

नीलोद्वाहमथातिपन्नशिशुसंस्कारान् सुरस्थापनम् ॥ ४६ ॥ शार्दूलविक्रीडितम्

दीक्षामौञ्जिविवाहमुण्डनमपूर्वं देवतीर्थेक्षणं

संन्यासाग्निपरिग्रहौ नृपतिसन्दर्शाऽभिषेकौ गमम् ।

चातुर्मास्यसमावृती श्रवणयोर्वेधं परीक्षां त्यजेद्-

वृद्धत्वास्तशिशुत्व इज्यसितयोर्न्यूनाधिमासे तथा ॥ ४७ ॥ शार्दूलविक्रीडितम्

अस्ते वर्ज्यं सिंहनक्रस्थजीवे वर्ज्यं केचिद्वक्रगे चातिचारे ।

गुर्वादित्ये विश्वघस्रेऽपि पक्षे प्रोचुस्तद्वद्दन्तरत्नादिभूषाम् ॥ ४८ ॥ शालिनी

सिंहे गुरौ सिंहलवे विवाहो नेष्टोऽथ गोदोत्तरतश्च यावत् ।

भागीरथीयाम्यतटे हि दोषो नान्यत्र देशे तपनेऽपि मेषे ॥ ४९ ॥ इन्द्रवज्रा

मघादिपञ्चपादेषु गुरुः सर्वत्र निन्दितः ।

गङ्गागोदान्तरं हित्वा शेषाङ्घ्रिषु न दोषकृत् ॥ ५० ॥

मेषेऽर्के सन् व्रतोद्वाहौ गङ्गागोदान्तरेऽपि च ।

सर्वः सिंहगुरुर्वर्ज्यः कलिङ्गे गौडगुर्जरे ॥ ५१ ॥

रेवापूर्वे गण्डकीपश्चिमे च शोणस्योदग्दक्षिणे नीच इज्यः ।

वर्ज्यो नायं कौङ्कणे मागधे च गौडे सिन्धौ वर्जनीयः शुभेषु ॥ ५२ ॥ शालिनी

गोजान्त्यकुम्भेतरभेऽतिचारगो नो पूर्वराशिं गुरुरेति वक्रितः ।

तदा विलुप्ताब्द इहातिनिन्दितः शुभेषु रेवासुरनिम्नगान्तरे ॥ ५३ ॥ शङ्खचूडा

पादोनरेखापरपूर्वयोजनैः पलैर्युतोनास्तिथयो दिनार्धतः ।

ऊनाधिकास्तद्विवरोद्भवैः पलैरूर्ध्वं तथाऽधो दिनपप्रवेशनम् ॥ ५४ ॥ रताख्यानकी

वारादेर्घटिका द्विघ्नाः स्वाक्षहृच्छेषवर्जिताः ।

सैकास्तष्टा नगैः कालहोरेशा दिनपात् क्रमात् ॥ ५५ ॥  अनुष्टुप्

वारे प्रोक्तं कालहोरासु तस्य धिष्ण्ये प्रोक्तं स्वामितिथ्यंशकेऽस्य ।

कुर्याद्दिक्छूलादिचिन्त्यं क्षणेषु नैवोल्लङ्ध्यः पारिघश्चापि दण्डः ॥ ५६ ॥ शालिनी

मन्वाद्यास्त्रितिथी मधौ तिथिरवी ऊर्जे शुचौ दिक्तिथी

ज्येष्ठेऽन्त्ये च तिथिस्त्विषे नव तपस्यश्वाः सहस्ये शिवाः ।

भाद्रेऽग्निश्च सिते त्वमाष्टनभसः कृष्णे युगाद्याः सिते

गोऽग्नी बाहुलराधयोर्मदनदर्शौ भाद्रमाघासिते ॥ ५७ ॥ शार्दूलविक्रीडितम्

॥ शुभाशुभप्रकरणं समाप्तम् १ ॥