॥ अथ नक्षत्रप्रकरणम् ॥ २ ॥

नासत्याऽन्तकवह्निधातृशशभृद्रुद्रादितीज्योरगा

ऋक्षेशाः पितरो भगोऽर्यमरवी त्वष्टा समीरः क्रमात् ।

शक्राग्नी खलु मित्र इन्द्रनिरृतिक्षीराणि विश्वेविधि-

र्गोविन्दो वसुतोयपाऽजचरणाऽहिर्बुध्न्यपूषाभिधाः ॥ १ ॥ - स्रग्धरा

उत्तरात्रयरोहिण्यो भास्करश्च ध्रुवं स्थिरम् ।

तत्र स्थिरं बीजगेहशान्त्याऽऽरामादि सिद्धये ॥ २ ॥

स्वात्यादित्ये श्रुतेस्त्रीणि चन्द्रश्चापि चरं चलम् ।

तस्मिन् गजादिकारोहो वाटिकागमनादिकम् ॥ ३ ॥

पूर्वात्रयं याम्यमघे उग्रं क्रूरं कुजस्तथा ।

तस्मिन् घाताग्निशाठ्यानि विषशस्त्रादि सिद्ध्यति ॥ ४ ॥

विशाखाग्नेयभे सौम्यो मिश्रं साधारणं स्मृतम् ।

तत्राग्निकार्यं मिश्रं च वृषोत्सर्गादि सिद्ध्यति ॥ ५ ॥

हस्ताश्विपुष्याभिजितः क्षिप्रं लघु गुरुस्तथा ।

तस्मिन् पण्यरतिज्ञानं भूषाशिल्पकलादिकम् ॥ ६ ॥

मृगान्त्यचित्रामित्रर्क्षं मृदुमैत्रं भृगुस्तथा ।

तत्र गीताम्बरक्रीडा मित्रकार्यं विभूषणम् ॥ ७ ॥

मूलेन्द्रार्द्राहिभं सौरिस्तीक्ष्णं दारुणसंज्ञकम् ।

तत्राभिचारघातोग्रभेदाः पशुदमादिकम् ॥ ८ ॥

मूलाहिमिश्रोग्रमघोमुखं भवेदूर्ध्वास्यमार्द्रेज्यहरित्रयं ध्रुवम् ।

तिर्यङ्मुखं मैत्रकरानिलादितिज्येष्ठाश्विभानीदृशकृत्यमेषु सत् ॥ ९ ॥

पौष्णध्रुवाश्विकरपञ्चकवासवेज्या

दित्ये प्रवालरदशङ्खसुवर्णवस्त्रम्

धार्यं विरक्तशनिचन्द्रकुजेऽह्नि रक्तं

भौमे ध्रुवादितियुगे सुभगा न दध्यात् १०

वस्त्राणां नवभागकेषु च चतुष्कोणेऽमरा राक्षसा

मध्यत्र्यंशगता नरास्तु सदशे पाशे च मध्यांशयाः

दग्धे वा स्फुटितेऽम्बरे नवतरे पङ्कादिलिप्ते न स

द्रक्षॐऽशे नृसुरांशयोः शुभमसत्सर्वांशके प्रान्ततः ११

विप्राज्ञया तथोद्वाहे राज्ञा प्रीत्याऽर्पितञ्च यत्

निन्द्येऽपि धिष्ण्ये वारादौ वस्त्रं धार्यं जगुर्बुधाः १२

राधामूलमृदुध्रुवर्क्षवरुणक्षिप्रैर्लतापादपा

रोपोऽथो नृपदर्शनं ध्रुवमृदुक्षिप्रश्रवोवासवैः

तीक्ष्णोप्राम्बुपभेषु मद्यमुदितं क्षिप्रान्त्यवह्नीन्द्रमा

दित्येन्द्राम्बुपवासवेषु हि गवां शस्तः क्रयो विक्रयः १३

लग्ने शुभे चाष्टमशुद्धिसंयुते रक्षा पशूनां निजयोनिभे चरे

रिक्ताऽष्टमीदर्शकुजश्रवोध्रुवत्वाष्ट्रेषु यानं स्थितिवेशनं न सत् १४

भैषज्यं सल्लघुमृदुचरे मूलभे द्व्यङ्गलग्ने

शुक्रेन्द्विज्ये विदि च दिवसे चापि तेषां रवेश्च

शुद्धे रिष्फद्युनमृतिगृहे सत्तिथौ नो जनेर्भे

सूचीकर्माऽप्यदितिवसुभत्वाष्ट्रमित्राश्विपुष्ये १५

क्रयर्क्षे विक्रयो नेष्टो विक्रयर्क्षे क्रयोऽपि न

पौष्णाम्बुपाश्विनीवातश्रवश्चित्राः क्रये शुभाः १६

पूर्वाद्वीशकृशानुसार्पयमभे केन्द्रद्विकोणे शुभैः

षट्त्र्यायेष्वशुभैर्विना घटतनुं सन्विक्रयः सत्तिथौ

रिक्ताभौमघटान्विना च विपणिर्मित्रध्रुवक्षिग्रभै

र्लग्ने चन्द्रसिते व्ययाष्टरहितैः पापैः शुभैर्द्व्यायखे १७

क्षिप्रान्त्यवस्विन्दुमरुञ्जलेशादित्येष्वरक्तारदिने प्रशस्तम्

स्याद्वाजिकृत्त्यं त्वथ हस्तिकार्यं कुर्यान्मृदुक्षिप्रचरेषु विद्वान् १८

स्याद् भूषाघटनं त्रिपुष्करचरक्षिप्रध्रुवे रत्नयुक्

तत्तीक्ष्णोग्रविहीनभे रविकुजे मेषालिसिंहे तनौ

तन्मुक्तासहितं चरध्रुवमृदुक्षिप्रे शुभे सत्तनौ

तीक्ष्णोग्राश्विमृगे द्विदैवदहने शस्त्रं शुभं घट्टितम् १९

मुद्राणां पातनं सद्ध्रुवमृदुचरभक्षिप्रभैर्वीन्दुसौरे

घस्रे पूर्णाजयाख्ये न च गुरुभृगुजास्ते विलग्ने शुभैः स्यात्

वस्त्राणां क्षालनं सद्वसुहयदिनकृत्पञ्चकादित्यपुष्ये

नो रिक्तापर्वषष्ठीपितृदिनरविजज्ञेषु कार्यं कदापि २०

सन्धार्याः कुन्तवर्मेष्वसनशरकृपाणासिपुत्र्यो विरिक्ते

शुक्रेज्यार्केऽह्नि मैत्रध्रुवलघुसहितादित्यशाक्रद्विदैवे

स्युर्लग्नेऽपि स्थिराख्ये शशिनि च शुभदृष्टे शुभैः केन्द्रगैः स्या

द्भोगः शय्यासनादेर्ध्रुवमृदुलघुहर्यन्तकादित्य इष्टः २१

अन्धाक्षं वसुपुष्यधातृजलभद्वीशार्यमान्त्याभिधं

मन्दाक्षं रविविश्वमित्रजलपाश्लेषाश्विचान्द्रं भवेत्

मध्याक्षं शिवपित्रजैकचरणत्वाष्ट्रैन्द्रविध्यन्तकं

स्वक्षं स्वात्यदितिश्रवोदहनभाहिर्बुÞयरक्षो भगम् २२

विनष्टार्थस्य लाभोऽन्धे शीघ्रं मन्दे प्रयत्नतः

स्याद्दूरे श्रवणं मध्ये श्रुत्याप्ती न सुलोचने २३

तीक्ष्णमिश्रध्रुवोग्रैर्यद् द्रव्यं दत्तं निवेशितम्

प्रयुक्तं च विनष्टं च विष्ट्यां पाते च नाप्यते २४

मित्रार्कध्रुववासवाम्बुपमघातोयान्त्यपुष्येन्दुभिः

पापैर्हीनबलैस्तनौ सुरगुरौ ज्ञे वा भृगौ खे विधौ

आप्ये सर्वजलाशयस्य खननं व्यम्भोमघैः सेन्द्रभै

स्तैर्नृत्यं हिबुके शुभैस्तनुगृहे ज्ञेऽब्जे ज्ञराशौ शुभम् २५

क्षिप्रे मैत्रे वित्सितार्केज्यवारे सौम्ये लग्नेऽर्के कुजे वा खलाभे

योनेर्मैत्र्यां राशिपोश्चापि मैत्र्यां सेवा कार्या स्वामिनः सेवकेन २६

स्वात्यादित्यमृदुद्विदैवगुरुभे कर्णत्रयाश्वे चरे

लग्ने धर्मसुताष्टशुद्धिसहिते द्रव्यप्रयोगः शुभः

नारे ग्राह्यमृणं तु संक्रमदिने वृद्धौ करेऽर्केऽह्नि यत्

तद्वंशेषु भवेदृणं न च बुधे देयं कदाचिद्धनम् २७

मूलद्वीशमघाचरध्रुवमृदुक्षिप्रैर्विनाऽर्क शनिं

पापैर्हीनबलैर्विधौ जललवे शुक्रे विधौ मांसले

लग्ने देवगुरौ हलप्रवहणं शस्तं न सिंहे घटे

कर्काजैणधटे तनौ क्षयकरं रिक्तासु षष्ठ्यां तथा २८

एतेषु श्रुतिवारुणादितिविशाखोडूनि भौमं विना

बीजोप्तिर्गदिता शुभा त्वगुभतोऽष्टाग्नीन्दुरामेन्दवः

रामेन्द्वग्नियुगान्यसच्छुभकराण्युप्तौ हलेऽर्कोज्झिताद्

भाद्रामाष्टनवाष्टभानि मुनिभिः प्रोक्तान्यसत्सन्ति च २९

त्वाष्ट्रान्मित्रकभाद् द्वयेऽम्बुपलघुश्रोत्रे शिरामोक्षणं

भौमार्केज्यदिने विरेकवमनाद्यं स्याद्बुधार्की विना

मित्रक्षिप्रचरध्रुवे रविशुभाहे लग्नवर्गे विदो

जीवस्यापि तनौ गुरौ निगदिता धर्मक्रिया तद्बले ३०

तीक्ष्णाजपादकरवह्निवसुश्रुतीन्दु

स्वातीमघोत्तरजलान्तकतक्षपुष्ये

मन्दाररिक्तरहिते दिवसेऽतिशस्ता

धान्यच्छिदा निगदिता स्थिरभे विलग्ने ३१

भाग्यार्यमश्रुतिमघेन्द्रविधातृमूल

मैत्रान्त्यभेषु कथितं कणमर्दनं सत्

द्वीशाजपान्निरृतिधातृशतार्यमर्क्षे

सस्यस्य रोपणमिहार्किकुजौ विना सत् ३२

मिश्रोग्ररौद्रभुजगेन्द्रविभिन्नभेषु

कर्काजतौलिरहिते च तनौ शुभाहे

धान्यस्थितिः शुभकरी गदिता ध्रुवेज्य

द्वीशेन्द्रदस्र चरभेषु च धान्यवृद्धिः ३३

क्षिप्रध्रुवान्त्यचरमैत्रमघासु शस्तं

स्याच्छान्तिकं च सह मङ्गलपौष्टिकाभ्याम्

खेऽर्के विधौ सुखगते तनुगे गुरौ नो

मौढ्यादिदुष्टसमये शुभदं निमित्ते ३४

सूर्यभात् त्रित्रिभे चान्द्रे सूर्यविच्छुक्रपङ्गवः

चन्द्रारेज्यागुशिखिनो नेष्टा होमाहुतिः खले ३५

सैका तिथिर्वारयुता कृताप्ता शेषे गुणेऽभ्रे भुवि वह्निवासः

सौख्याय होमे शशियुग्मशेषे प्राणार्थनाशौ दिवि भूतले च ३६

नवान्नं स्याच्चरक्षिप्रमृदुभे सत्तनौ शुभम्

विना नन्दाविषघटीमधुपौषाऽर्किभूमिजान् ३७

याम्यत्रयविशाखेन्द्रसार्पपित्र्येशभिन्नभे

भृग्वीज्यार्कदिने नौकाघटनं सत्तनौ शुभम् ३८

मूलार्द्राभरणीपित्र्यमृगे सौम्ये घटे तनौ

सुखे शुक्रेऽष्टमे शुद्धे सिद्धिर्वीराभिचारयोः ३९

व्यन्त्यादितिध्रुवमघाऽनिलसार्पधिष्ण्ये

रिक्ते तिथौ चरतनौ विकवीन्दुवारे

स्नानं रुजा विरहितस्य जनस्य शस्तं

हीने विधौ खलखगैर्भवकेन्द्रकोणे ४०

मृदुध्रुवक्षिप्रचरे ज्ञे गुरौ वा खलग्नगे

विधौ ज्ञजीववर्गस्थे शिल्पविद्या प्रशस्यते ४१

सुरेज्यमित्रभाग्येषु चाष्टम्यां तैतिले हरौ

शुक्रदृष्टतनौ सौम्यवारे सन्धानमिष्यते ४२

त्यक्त्वाऽष्टभूतशनिविष्टिकुजान् जनुर्भ

मासौ मृतौ रविविधू अपि भानि नाड्याः

द्व्यङ्गे चरे तनुलवे शशिजीवतारा

शुद्धौ करादितिहरीन्द्रकपे परीक्षा ४३

व्ययाष्टशुद्धोपचये लग्नगे शुभदृग्युते

चन्द्रे त्रिषड्दशायस्थे सर्वारम्भः प्रसिद्ध्यति ४४

स्वातीन्द्रपूर्वाशिवसार्पभे मृतिर्ज्वरेऽन्त्यमैत्रे स्थिरता भवेद्रुजः

याम्यश्रवोवारुणतक्षभे शिवा घस्रा हि पक्षो द्व्यधिपार्कवासवे ४५

मूलाग्निदास्रे नव पित्र्यभे नखा बुÞयार्यमेज्यादितिधातृभे नगाः

मासोऽब्जवैश्वेऽथ यमाहिमूलभे मिश्रेशपित्र्ये फणिदंशने मृतिः ४६

रौद्राहिशाक्राम्बुपयाम्यपूर्वाद्विदैववस्वग्निषु पापवारे

रिक्ताहरिस्कन्ददिने च रोगे शीघ्रं भवेद्रोगिजनस्य मृत्युः ४७

क्षिप्राहिमूलेन्दुहरीशवायुभे प्रेतक्रिया स्याज्झषकुम्भगे विधौ

प्रेतस्य दाहं यमदिग्गमं त्यजेच्छय्यावितानं गृहगोपनादि च ४८

सूर्यर्क्षाद्रसभैरधःस्थलगतैः पाको रसैः संयुतः

शीर्षे युग्ममितैः शवस्य दहनं मध्ये युगैः सर्पभीः

प्रागाशादिषु वेदभैः स्वसुहृदां स्यात्सङ्गमो रोगभीः

क्वाथादेः करणं सुखं च गदितं काष्ठादिसंस्थापने ४९

भद्रातिथि रविजभूतनयार्कवारे द्वीशार्यमाजचरणादितिवह्निवैश्वे

त्रैपुष्करो भवति मृत्युविनाशवृद्धौ त्रैगुण्यदो द्विगुणकृद्वसुतक्षचान्द्रे ५०

शुक्रारार्किषु दर्शभूतमदने नन्दासु तीक्ष्णोग्रभे

पौष्णे वारुणभे त्रिपुष्करदिने न्यूनाधिमासेऽयने

याम्येऽब्दात्परतश्च पातपरिघे देवेज्यशुक्रास्तके

भद्रावैधृतयोः शवप्रतिकृतेर्दाहो न पक्षे सिते ५१

जन्मप्रत्यरितारयोर्मृतिसुखान्त्येऽब्जे च कर्तुर्न सन्

मध्यो मैत्रभगादितिध्रुवविशाखाद्व्यङ्घ्रिभे ज्ञेऽपि च

श्रेष्ठोऽर्केज्यविधोर्दिने श्रुतिकरस्वात्यश्विपुष्ये तथा

त्वाशौचात्परतो विचार्यमखिलं मध्ये यथासम्भवम् ५२

अभुक्तमूलं घटिकाचतुष्टयं ज्येष्ठान्त्यमूलादिभवं हि नारदः

वसिष्ठ एकद्विघटीमितं जगौ वृहस्पतिस्त्वेकघटीप्रमाणकम् ५३

अथोचुरन्ये प्रथमाष्टघट्यो मूलस्य शाक्रान्तिमपञ्च नाड्यः

जातं शिशुं तत्र परित्यजेद्वा मुखं पितास्याष्टसमा न पश्येत् ५४

आद्ये पिता नाशमुपैति मूलपादे द्वितीये जननी वृतीये

धनं चतुर्थोऽस्य शुभोऽथ शान्त्या सर्वत्र सत्स्यादहिभे विलोमम् ५५

स्वर्गे शुचिप्रौष्ठपदेषमाघे भूमौ नभःकार्तिकचैत्रपौषे

मूलं ह्यधस्तात्तु तपस्यमार्गवैशाखशुक्रेष्वशुभं च तत्र ५६

गण्डान्तेन्द्रभशूलपातपरिघव्याघातगण्डावमे

संक्रान्तिव्यतिपातवैधृतिसिनीवालीकुहूदर्शके

वज्रे कृष्णचतुर्दशीषु यमघण्टे दग्धयोगे मृतौ

विष्टौ सोदरभे जनिर्न पितृभे शस्ता शुभा शान्तितः ५७

त्रित्र्यङ्गपञ्चाग्निकुवेदवह्नयः शरेषुनेत्राश्विशरेन्दुभूकृताः ।

वेदाग्निरुद्राश्वियमाग्निवह्नयोऽब्धयः शतं द्विद्विरदा भतारकाः ॥ ५८ ॥ - शिशिरा

अश्व्यादिरूपं तुरगास्ययोनिक्षुरोऽन एणास्यमणिर्गृहं च ।

पृषत्कचक्रे भवनं च मञ्चः शय्या करो मौक्तिकविद्रुमं च ॥ ५९ ॥ - जया

तोरणं बलिनिभं च कुण्डलं सिंहपुच्छगजदन्तमञ्चकाः

त्र्यस्रि च त्रिचरणाभमर्दलौ वृत्तमञ्चयमलाभमर्दलाः ॥ ६० ॥ - रथोद्धता

जलाशयारामसुरप्रतिष्ठा सौम्यायने जीवशशाङ्कशुक्रे

दृश्ये मृदुक्षिप्रचरध्रुवे स्यात्पक्षे सिते स्वर्क्षतिथिक्षणे वा ६१

रिक्तारवर्ज्ये दिवसेऽतिशस्ता शशाङ्कपापैस्त्रिभवाङ्गसंस्थैः

व्यन्त्याष्टगैः सत्खचरैर्मृगेन्द्रे सूर्यो घटे को युवतौ च विष्णुः ६२

शिवो नृयुग्मे द्वितनौ च देव्यः क्षुद्राश्चरे सर्व इमे स्थिरर्क्षे

पुष्ये ग्रहा विघ्नपयक्षसर्पभूतादयोऽन्त्ये श्रवणे जिनश्च ६३

इति मुहूर्त्तचिन्तामणौ नक्षत्रप्रकरणम् २